|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.114. अध्यायः 114
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति केशवादिभगवन्मूर्त्युपास्तिपूर्वकं मार्गशीर्षादिद्वादशद्वादशीव्रताचरणफलकथनम्॥ 1 ॥ युधिष्ठिरेण विस्तरेण कृष्णस्तवनम्॥ 2 ॥ पुनः कृष्णेन युधिष्ठिराय एकादश्युपवासपूर्वकं द्वादश्यां भगवत्पूजायाः फलकथनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत्।
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव॥ 14-114-1(96679)
भगवानुवाच। 14-114-2x(7995)
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम्।
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते॥ 14-114-2(96680)
एकभुक्तेन वर्तेत नरः संवत्सरं तु यः।
ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः॥ 14-114-3(96681)
शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः।
अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना।
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः॥ 14-114-4(96682)
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च।
विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा॥ 14-114-5(96683)
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः।
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत्॥ 14-114-6(96684)
मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन्।
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम्॥ 14-114-7(96685)
नवनीतमयीं गां वा तिलधेनुमथापि वा।
विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः।
तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु॥ 14-114-8(96686)
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा।
तद्विनश्यति तस्याशु नात्र कार्या विचारणा॥ 14-114-9(96687)
युधिष्ठिर उवाच। 14-114-10x(7996)
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्।
यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति॥ 14-114-10(96688)
भगवानुवाच। 14-114-11x(7997)
शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते।
तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर॥ 14-114-11(96689)
यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप।
उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम्।
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते॥ 14-114-12(96690)
युधिष्ठिर उवाच। 14-114-13x(7998)
भगवन्देवदेवेश पञ्चमी नाम का तव।
तामहं श्रोतुमिच्छामि कथयस्व ममानघ॥ 14-114-13(96691)
भगवानुवाच। 14-114-14x(7999)
पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप।
मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः॥ 14-114-14(96692)
तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः।
उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः॥ 14-114-15(96693)
द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन्।
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव॥ 14-114-16(96694)
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम्।
उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत्॥ 14-114-17(96695)
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम्।
उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत्॥ 14-114-18(96696)
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम्।
पूजयेद्यः समाप्नोति राजसूयफलं नृप॥ 14-114-19(96697)
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम्॥
पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप॥ 14-114-20(96698)
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः।
पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम्॥ 14-114-21(96699)
द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम्।
उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव॥ 14-114-22(96700)
द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम्।
अर्ययेद्यः समाप्नोति गवां मेधफलं नृप॥ 14-114-23(96701)
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः।
नरमेधस्य स फलं प्राप्नोति भरतर्षभ॥ 14-114-24(96702)
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम्।
पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप॥ 14-114-25(96703)
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत्।
उपोष्य स समाप्नोति सौत्रामणिफलं नृप॥ 14-114-26(96704)
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम्।
अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप॥ 14-114-27(96705)
द्वादश्यां कार्तिके मासि मां दामोदरसंज्ञितम्।
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप॥ 14-114-28(96706)
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन।
यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप॥ 14-114-29(96707)
श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः।
मम सालोक्यमाप्नोति नात्र कार्या विचारणा॥ 14-114-30(96708)
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः।
पूर्मे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम्॥ 14-114-31(96709)
अविघ्नमर्चयानस्तु यो मद्भक्तो मत्परायणः।
अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात्॥ 14-114-32(96710)
अर्चयेत्प्रीतिमान्यो मां द्वादस्यां वेदसंहिताम्।
स पूर्वोक्तफलं राजँल्लभते नात्र संशयः॥ 14-114-33(96711)
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा।
द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः॥ 14-114-34(96712)
एतेन विधिना सर्वे देवाः शक्रपुरोगमाः।
मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते॥ 14-114-35(96713)
वैशम्पायन उवाच। 14-114-36x(8000)
एवं वदति देवेशे केशवे पाडुनन्दनः।
कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत्॥ 14-114-36(96714)
सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते।
सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते॥ 14-114-37(96715)
त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः।
यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमोनमः॥ 14-114-38(96716)
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः।
लोकात्मँल्लोककृन्नाथ लोकावास नमोनमः॥ 14-114-39(96717)
सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः।
भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः॥ 14-114-40(96718)
लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः।
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः॥ 14-114-41(96719)
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मिरताय ते।
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः॥ 14-114-42(96720)
कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः।
योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः॥ 14-114-43(96721)
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः।
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः॥ 14-114-44(96722)
वैशम्पायन उवाच। 14-114-45x(8001)
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे।
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत्॥ 14-114-45(96723)
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम्।
वक्तुमेव नरश्रेषठ धर्मपूत्रं प्रचक्रमे॥ 14-114-46(96724)
भगवानुवाच। 14-114-47x(8002)
अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव।
तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर॥ 14-114-47(96725)
युधिष्ठिर उवाच। 14-114-48x(8003)
भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः।
न शान्तिरस्ति मे देव नृत्यतीव च मे मनः॥ 14-114-48(96726)
इदं च धर्मसंपन्नं वक्तुमर्हसि माधव।
कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत्॥ 14-114-49(96727)
भगवानुवाच। 14-114-50x(8004)
शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते।
परमं कृष्णद्वादश्यामर्चनायां फलं मम॥ 14-114-50(96728)
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम्।
विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः॥ 14-114-51(96729)
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा।
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः॥ ॥ 14-114-52(96730)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः॥ 114 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|